Use APKPure App
Get वाचस्पत्यम् old version APK for Android
वाचस्पत्यम् इति षटसु संपुटेषु पूर्णो महाशब्दकोषः ।
वाचस्पत्यम् इति षटसु संपुटेषु पूर्णो महाशब्दकोषः । यस्य च रचयिता “ तर्कवाचस्पति” रिति बिरुदाङ्कितस्तत्रभवान् तारानाथः । अस्य महाकोषस्य पीठिकायामेते ग्रन्थाः वा शास्त्रविषयाः वा मुद्रिताः –पाणिनीयं लिङ्गानुशासनं, व्याकरणीयानां मुख्यानां प्रत्ययानां पट्टिका, रुढ-यौगिकभेदेन शब्दद्वैविध्यं च । यद्यप्याधुनिके काले एतादृश्यः पट्टिका बहुषु ग्रन्थेषूपलभ्यन्ते, परन्तु तस्मिन् काले तथा नासीत् ।
अत्रोपलभ्यमानानां विषयाणां पट्टिका काचिदादिमे संपुटे दत्ता । तदनुसारेण सर्वाणि दर्शनानि, पुराणेतिहासयोः समग्राः प्रतिपाद्या विषयाः, ज्यौतिष-तन्त्र-व्याकरण- संगीत-निष्ठाः पारिभाषिकाः सर्वे शब्दाः, छन्दोऽलङ्कारनृत्यादीनां सकलानि प्रतिपाद्यानि वस्तूनि इत्यादीत्यादि । किं बहुनोक्तेन ? अलमेषः कोषः शब्दकल्पद्रुमाय । अधितारानाथं संक्षेपतो परिचायितं षष्ठस्य संपुटस्योपसंहारे । वात्स्यवंशे कमलाकान्ताभिध आसीद् वैदिकपुंगवः । तद्वंशीयस्य मुकुन्दाभिधस्य पुत्रो रामतर्कसिध्दान्तः । स सदाऽपि शिव शिव इति जपति स्म । तस्मात्तस्य शिवशिवः इत्येव संज्ञाऽजनि । तस्य त्रयः सूनवः-वंशीधरतर्क पञ्चाननः, दुर्गादासः, नानाशास्त्रेषु दनीष्णश्च कालिदाससार्वभौमः ।
कालिदाससार्वभौमस्य पुत्र एवास्माकं कोषकृत् तारानाथः । अस्य तर्कवाचस्पतिरिति बिरुदमस्यैव गुरुणा प्रत्तम् । कोलकतायाः शासकीयायां संस्कृतपाठशालायां कृताध्ययन एष काशीप्रभृतिषु स्थलेषु समधीतविविधशास्त्रोऽभूत । यस्यां शालायामध्य्यनमस्य प्रथमं कृतं तस्यामेव शालायां त्रिंशाद्वर्षाणि व्याकरणादिशास्त्रेषु अध्यापकोऽभूत् ।
१८६६ ईसव्यां प्रारब्धा वाचस्पत्यस्य् रचना १८८४ ईसव्यां संपूर्णेति ज्ञायते । अर्थात्, अष्टादशवर्षेषु परिपूर्णतामनायि महाकोष एषः । वाचस्पत्यस्य रचनायामसमाप्तायां कुतश्चित् कारणात् तारानाथस्य वेतनेऽर्धमात्रया नैयून्यं संजातम् । तथाऽप्यध्ययनात् कथमप्यपराजयमानोऽयं वाचस्पत्याख्यं महाकोशम् एकल एव रचयमास इति तु साक्षाद् वाचस्पतिरेव प्रभवति भगीरथश्रमसोदरं श्रममेतदीयं वर्णयितुं नान्य इत्यस्य सूचकम् ।कानि कानि कष्टानि सोढव्यान्यापतितानि स्युस्तारानाथेनेति केवलं कल्पनयैव विस्मयजो रोमाञ्च उद्भवति ।
परन्तु कोषस्यास्य मुद्रणां दृष्टवतां पाठकानां कश्चनोद्वेगः पदं निदधाति हृदये । अत्रत्यानि मुद्राक्षराणि (Fonts) सर्वथा कुरुपाणि पठनानर्हाणि च । ग्रन्थस्य पठनमेव कदाचिदनल्पं श्रममपेक्षते । तारानाथस्तु कोल्कत्तानगरे स्वसमये समुपलब्धानामेवाक्षराणामुपयोगं कृतवानस्ति । शब्दकल्पद्रुमस्य मुद्रणा वाचस्पत्यस्य मुद्रणाया वरम् । केवलं व्यापारार्थं द्युतिविन्यासेन (Photo offset) वाचस्पत्यं भूयो भूयो मुद्रापयन्तः प्रकाशका यदि सुन्दरैर्लघुतमैश्चाक्षरविन्यासैरस्य मुद्रणाम् एकस्मिन्नेव संपुटे निर्वर्त्य प्रकाशयेयुः इत्यं भूतलक्षणां सब्दुद्धिं प्रदर्शयिष्यद्भयस्तेभ्यः समस्ताऽपि सांस्कृती जगती ऋणिनी भविष्यति ।
यथा भवन्तः दृष्टवन्तः यत् अष्टादशवर्षेषु निर्मितः षट्खण्डेषु अयं महाविश्वकोषः वृहदाकारः सार्धपञ्चसहस्रपृष्ठयुतः । एतदर्थं प्रयोगे सर्वसुलभः नास्तीति धिया मया एन्ड्रॉयडसंसाधनरूपे संसाधितः अयं ग्रन्थः । आशासे यदयं भवद्भिः रोचते एव ।
वाचस्पत्यम् संस्कृत का आधुनिक महाशब्दकोश है। इसका संकलन तर्कवाचस्पति तारानाथ भट्टाचार्य (1812-1885) ने किया था जो बंगाल के राजकीय संस्कृत महाविद्यालय में अध्यापक थे। इसका निर्माण सन १८६६ ई में आरम्भ हुआ और १८८४ ई में समाप्त। इस प्रकार इसको पूरा करने में १८ वर्ष लगे। शब्दकल्पद्रुम की अपेक्षा संस्कृत कोश का यह एक बृहत्तर संस्करण है।
'शब्दकल्पद्रुम' की अपेक्षा इसमें एक और विशेषता लक्षित होती है। 'शब्दकल्पद्रम' में 'पद' सुबंत तिङत दिए गए हैं। प्रथमा एकबचन के रूप को कोश में व्याख्येय शब्द का स्थान दिया गया है। पंरतु 'वाचस्पत्यम्' में दिए गय शब्द 'पद' न होकर 'प्रातिपदिक' अथवा 'धातुरूप' में उपन्यस्त हैं। वैसे सामान्य दृष्टि से—रचनाविधान की पद्धति के विचार से— 'वाचस्पत्यम्' की 'शब्दकल्पद्रुम' का विकसित रूप कहा जा सकता है। 'विल्सन' और 'मोनियर विलियम्य' के कोशों द्बारा अर्थबोध, शब्दार्थज्ञान एवं शब्दप्रयोग की सूचना तथा व्याख्यापरक परिचय संक्षिप्त है, पर उपयोगी रूप में कराया गया है। परंतु 'शब्दकल्पद्रुम' और 'वाचस्पत्यम्' द्वारा उद्धरणों की विस्तृत पृष्ठभूमि के संपर्क में उभरे हुए अर्थचित्र यद्यपि संश्लिष्टबोध देने में सहायक होते है तथापि उद्धरणों के माध्यम से संबद्धज्ञान का आकार विश्वकोशीय हो गया है। उपयोगितासपन्न होकर भी सामान्य संस्कृतज्ञों के लिये— यह व्यावाहारिक सौविध्य से रहित हो गया है। अतः मैनें इसको सर्वसुलभ बनाने केलिए इसका एण्ड्रॉयड संसाधन बनाया । आशा है कि अब यह ग्रन्थ सर्वसुलभ सर्वोपयोगी हो जाएगा ।
Last updated on Nov 20, 2023
Minor bug fixes and improvements. Install or update to the newest version to check it out!
द्वारा डाली गई
Marius Florin Piele
Android ज़रूरी है
Android 5.0+
श्रेणी
रिपोर्ट
वाचस्पत्यम्
Srujan Jha
2.6
विश्वसनीय ऐप